मृत्य्वष्टकम्

मृत्य्वष्टकम्
〰〰〰〰〰〰

।। मार्कण्डेय उवाच ।।

नारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।

प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ? ।। १

गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।

केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ? ।। २

वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् ।

दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ? ।। ३

शङ्खचक्रधरं देवं छन्नरुपिणमव्ययम् (छन्दोरुपिणमव्ययम्) ।

अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ? ।। ४

वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् ।

माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ? ।। ५

पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् ।

लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ? ।। ६

भूतात्मानं महात्मानं जगद्योनिमयोनिजम् (यज्ञयोनिमयोनिजम्) ।

विश्वरुपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ? ।। ७

सहस्रशीर्षसं देवं व्यक्ताऽव्यक्तं सनातनम् ।

महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ? ।। ८

।।फल-श्रुति।।

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः ।

अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ।। ९

इत्येन विजितो मृत्युर्मार्कण्डेयेन धीमता ।

प्रसन्ने पुण्डरीकाक्षे नृसिंहं नास्ति दुर्लभम् ।। १०

मृ्त्य्वष्टकमिदं (मृत्युञ्जयमिदं) पुण्यं मृत्युप्रशमनं शुभम् ।

मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ।। ११

य इदं पठते भक्त्या त्रिकालं नियतः शुचिः ।

नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ।। १२

हृत्पद्ममध्ये पुरुषं पुरातनं (पुराणम्) नारायणं शाश्वतमादिदेवम् ।

संचिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ।। १३ 

।।श्रीनरसिंह पुराणे अन्तर्गत मार्कण्डेयमृत्युञ्जयो नाम (मृत्य्वष्टकं नाम) स्तोत्र।।

#अघोर #अवधूत #आर्यवर्त #मृत्य्वष्टकम्

Comments

Popular posts from this blog

मुगलो का हिन्दू महिलाओं पर अमानुषी अत्याचार!!!

शुकर दन्त वशीकरण सिद्धि प्रयोग

अय्यासी मुहम्मद का सच....