||राम द्वादशनामस्तोत्र||
||राम द्वादशनामस्तोत्र||
〰⚛〰⚛〰⚛〰
प्रथमं श्रीधरं विद्याद्वितीयं रघुनायकम्।
तृतीयं रामचंद्रं च चतुर्थं रावणान्तकम्।।
पंचमं लोकपूज्यं च षष्ठमं जानकी पतिम्।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा।।
नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम्।
एकादशंच गोविंदं द्वादश सेतुबंधनम्।।
द्वादशैतानि नामानि यःपठेत् श्रध्दयान्वितः।
अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्रयनाशनम्।।
अरण्यै चैव संग्रामे अग्नौभयनिवारणम्।
ब्रह्महत्या सुरापानं गोहत्या$$दि निवारणम्।।
सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम्।
ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः।
अश्वमेधशतं पुण्यं ब्रह्मलोकं गमिष्यती।।
।। इति श्री स्कंदपुराणे उत्तरखंडे श्री उमामहेश्वर
संवादे श्री रामद्वादशनाम स्तोत्र संपूर्णम्।।
।।जय जय श्री राम।।
#अवधूत #अघोर #आर्यवर्त #राम_द्वादशनामस्तोत्र
Comments
Post a Comment