बटुक भैरव ब्रह्मकवचम

बटुक भैरव ब्रह्मकवचम

श्रीउमामहेश्वराभ्यां नमःश्रीगुरवे नमः श्रीभैरवाय नमः

श्रीदेव्युवाच

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।

सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २॥

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

उवाच वचनं तत्र देवदेवो महेश्वरः ॥ ३॥

ईश्वर उवाच 

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।

ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् 

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥


ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः अनुष्टुप् छन्दः  श्रीबटुकभैरवो देवता मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥

अथ पाठः ।

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

बटुकाय पातु नाभौ चापदुद्धारणाय च ॥

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

ॐ ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।

इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (चतुवर्गफलप्रदं)

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

सदानन्दमयो भूत्वा लभते परमं पदम् ।

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः ।

यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

इदं कवचमज्ञात्वा यो जपेद्बटुकं नरः ।

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

मन्वन्तरत्रयं स्थित्वा तिर्यग्योनिषु जायते ।

इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥

शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।

देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३०॥

कार्पण्यरहितायालं बटुकभक्तिरताय च ।

योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।

इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् 

#अघोर

Comments

Popular posts from this blog

बाबा बालकनाथ जी का सिद्ध स्त्रोत

मुगलो का हिन्दू महिलाओं पर अमानुषी अत्याचार!!!

शुकर दन्त वशीकरण सिद्धि प्रयोग