महाकाल शनि मृत्युंजय स्तोत्र
महाकाल शनि मृत्युंजय स्तोत्र 〰〰⚛⚛〰⚛⚛⚛〰⚛⚛〰〰 विनियोगः- 〰〰〰〰 ॐ अस्य श्री महाकाल शनि मृत्युञ्जय स्तोत्र मन्त्रस्य पिप्लाद ऋषिरनुष्टुप्छन्दो महाकाल शनिर्देवता शं बीजं मायसी शक्तिः काल पुरुषायेति कीलकं मम अकाल अपमृत्यु निवारणार्थे पाठे विनियोगः। श्री गणेशाय नमः। ॐ महाकाल शनि मृत्युंजयाय नमः। नीलाद्रीशोभाञ्चितदिव्यमूर्तिः खड्गो त्रिदण्डी शरचापहस्तः। शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ।।1।। मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् । प्रणम्य शिरसा गौरी पृच्छतिस्म जगद्धितम् ।।2।। ॥पार्वत्युवाच॥ भगवन् ! देवदेवेश ! भक्तानुग्रहकारक ! । अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम् ।।3।। तदेवत्वं महाबाहो ! लोकानां हितकारकम् । तव मूर्ति प्रभेदस्य महाकालस्य साम्प्रतम् ।।4।। शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः । अकाल मृत्युहरणमपमृत्यु निवारणम् ।।5।। शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम् । प्रतिनाम चथुर्यन्तं नमोन्तं मनुनायुतम् ।।6।। ॥श्रीशंकर उवाच॥ नित्ये प्रियतमे गौरि सर्वलोक-हितेरते । गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम् ।।7।। शनिमृत्युञ्जयस